10.देव दर्शन स्तोत्र

दर्शनं देवदेवस्य, दर्शनं पापनाशनम्।
दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम्॥1


दर्शनेन जिनेन्द्राणां, साधूनां वन्दनेन च।
न तिष्ठति चिरं पापं, छिद्रहस्ते यथोदकम्॥2


वीतराग – मुखं दृष्ट्वा, पद्मरागसमप्रभम्।
नैकजन्मकृतं पापं, दर्शनेन विनश्यति॥3


दर्शनं जिनसूर्यस्य, संसार-ध्वान्तनाशनम्।
बोधनं चित्तपद्मस्य, समस्तार्थ-प्रकाशनम्॥4


दर्शनं जिनचन्द्रस्य, सद्धर्मामृत-वर्षणम्।
जन्म-दाहविनाशाय, वर्धनं सुखवारिधे:॥5


जीवादितत्त्व प्रतिपादकाय, 
सम्यक्त्व मुख्याष्टगुणार्णवाय।
प्रशान्तरूपाय दिगम्बराय,
 देवाधिदेवाय नमो जिनाय॥6


चिदानन्दैक – रूपाय, जिनाय परमात्मने।
परमात्मप्रकाशाय,नित्यं सिद्धात्मने नम:॥7


अन्यथा शरणं नास्ति, त्वमेव शरणं मम।
तस्मात्कारुण्यभावेन, रक्ष रक्ष जिनेश्वर:॥8


न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये।
वीतरागात्परो देवो,न भूतो न भविष्यति॥9


जिने भक्तिर्जिने भक्तिर्जिने भक्ति-र्दिनेदिने।
सदा मेऽस्तु सदा मेऽस्तु,सदा मेऽस्तु भवे भवे॥10


जिनधर्मविनिर्मुक्तो, मा भूवंचक्रवत्र्यपि।
स्यां चेटोऽपि दरिद्रोऽपि,जिनधर्मानुवासित:॥11


जन्मजन्मकृतं पापं, जन्मकोटिमुपार्जितम्।
जन्ममृत्युजरा-रोगो, हन्यते जिनदर्शनात्॥12


अद्याभवत् सफलता नयन-द्वयस्य,
देव ! त्वदीय चरणाम्बुज वीक्षणेन।
अद्य त्रिलोक-तिलक ! प्रतिभासते मे,
संसार-वारिधिरयं चुलुक-प्रमाण:॥13