21.परमानंद स्त्रोत
परमानन्द-संयुक्तं, निर्विकारं निरामयम्।
ध्यानहीना न पश्यन्ति,निजदेहे व्यवस्थितम्॥१
अनन्तसुखसम्पन्नं, ज्ञानामृतपयोधरम्।
अनन्तवीर्यसम्पन्नं,दर्शनं परमात्मन: ॥ २
निर्विकारं निराबाधं, सर्वसङ्गविवर्जितम्।
परमानन्दसम्पन्नं,शुद्धचैतन्यलक्षणम्॥३
उत्तमा स्वात्मचिन्ता स्यात् देहचिन्ता च मध्यमा।
अधमा कामचिन्ता स्यात्,परचिन्ताऽधमाधमा॥४
निर्विकल्प समुत्पन्नं, ज्ञानमेव सुधारसम्।
विवेकमञ्जलिं कृत्वा,तं पिबंति तपस्विन:॥ ५
सदानन्दमयं जीवं, यो जानाति स पण्डित:।
स सेवते निजात्मानं,परमानन्दकारणम्॥ ६
नलिन्याच्च यथा नीरं, भिन्नं तिष्ठति सर्वदा।
सोऽयमात्मा स्वभावेन,देहे तिष्ठति निर्मल:॥७
द्रव्यकर्ममलैर्मुक्तं भावकर्मविवर्जितम्।
नोकर्मरहितं सिद्धं निश्चयेन चिदात्मकम्॥८
आनन्दं ब्रह्मणो रूपं, निजदेहे व्यवस्थितम्।
ध्यानहीना न पश्यन्ति,जात्यन्धा इव भास्करम्॥९
सद्ध्यानं क्रियते भव्यैर्मनो येन विलीयते।
तत्क्षणं दृश्यते शुद्धं, चिच्चमत्कारलक्षणम्॥ १०
ये ध्यानशीला मुनय: प्रधानास्ते दु:खहीना नियमाद्भवन्ति।
सम्प्राप्य शीघ्रं परमात्मतत्त्वं,व्रजन्ति मोक्षं क्षणमेकमेव॥ ११
आनन्दरूपं परमात्मतत्त्वं,समस्तसंकल्पविकल्पमुक्तम्।
स्वभावलीना निवसन्ति नित्यं,जानाति योगी स्वयमेव तत्त्वम्॥१२
चिदानन्दमयं शुद्धं, निराकारं निरामयम्।
अनन्तसुखसम्पन्नं सर्वसङ्गविवर्जितम्॥ १३
लोकमात्रप्रमाणोऽयं, निश्चये न हि संशय:।
व्यवहारे तनुमात्र: कथित: परमेश्वरै:॥ १४
यत्क्षणं दृश्यते शुद्धं तत्क्षणं गतविभ्रम:।
स्वस्थचित्त:स्थिरीभूत्वा,निर्विकल्पसमाधिना॥१५
स एव परमं ब्रह्म, स एव जिनपुङ्गव:।
स एव परमं तत्त्वं, स एव परमो गुरु : ॥१६
स एव परमं ज्योति:,स एव परमं तप:।
स एव परमं ध्यानं,स एव परमात्मक:॥१७
स एव सर्वकल्याणं,स एव सुखभाजनम्।
स एव शुद्धचिद्रूपं,स एव परम: शिव:॥१८
स एव परमानन्द:,स एव सुखदायक:।
स एव परमज्ञानं,स एव गुणसागर: ॥१९
परमाल्हादसम्पन्नं,रागद्वेषविवर्जितम्।
सोऽहं तं देहमध्येषु यो जानाति स पण्डित:॥२०
आकाररहितं शुद्धं, स्वस्वरूपे व्यवस्थितम्।
सिद्धमष्टगुणोपेतं,निर्विकारं निरञ्जनम्॥२१
तत्सद्दर्शनं निजात्मानं, प्रकाशाय महीयसे।
सहजानन्दचैतन्यं,यो जानाति स पण्डित:॥२२
पाषाणेषु यथा हेम, दुग्धमध्ये यथा घृतम्।
तिलमध्ये यथा तैलं,देहमध्ये तथा शिव:॥ २३
काष्ठमध्ये यथा वह्नि:, शक्तिरूपेण तिष्ठति।
अयमात्मा शरीरेषु,यो जानाति स पण्डित:॥२४