1. जैन पूजा विधि प्रारंभ
ॐ जय! जय! जय! |
नमोऽस्तु! नमोऽस्तु! नमोऽस्तु!|
णमो अरिहंताणं,. णमो सिद्धाणं,
णमो आइरियाणं | णमो उवज्झायाणं,
णमो लोए सव्वसाहूणं ||
ॐ ह्रीं अनादिमूलमंत्रेभ्यो नमः |
(पुष्पांजलि क्षेपण करें)
चत्तारि मंगलं अरिहंता मंगलं, सिद्धा मंगलं,
साहू मंगलं, केवलपण्णत्तो धम्मो मंगलं |
चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा,
सिद्धा लोगुत्तमा,साहू लोगुत्तमा,
केवलिपण्णत्तो धम्मो लोगुत्तमो |
चत्तारि सरणं पव्वज्जामि,
अरिहंते सरणं पव्वज्जामि,
सिद्धे सरणं पव्वज्जामि,
साहू सरणं पव्वज्जामि,
केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ||
ॐ नमोऽर्हते स्वाहा |
(पुष्पांजलि क्षेपण करें)
अपवित्रःपवित्रो वा सुस्थितो दुःस्थितोऽपि वा|
ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते |1|
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः |2|
अपराजित-मंत्रोऽयं, सर्व-विघ्न-विनाशनः |
मंगलेषु च सर्वेषु, प्रथमं मंगलमं मतः |3|
एसो पंच-णमोयारो, सव्व-पावप्पणासणो |
मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् |4|
अर्हमित्यक्षरं ब्रह्म, वाचकं परमेष्ठिनः |
सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहम् |5|
कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् |
सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् |6|
विघ्नौघाः प्रलयं यान्ति, शाकिनी भूत पन्नगाः |
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे |7|
(पुष्पांजलि क्षेपण करें)
* * * * *